Brahma Purana· Brahma Purāṇa
233
अध्याय 233 / 246

Adhyaya 233

49 श्लोकWhatsApp

पूर्ण अध्याय पाठ49 श्लोक

श्लोक पर जाएं:

अध्याय २३३

श्लोक 1

सप्तर्षिस्थानम् आक्रम्य स्थिते ऽम्भसि द्विजोत्तमाः एकार्णवं भवत्य् एतत् त्रैलोक्यम् अखिलं ततः

saptarṣisthānam ākramya sthite 'mbhasi dvijottamāḥ ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

How will I, O Brahma, achieve my desired object? What shall I do? How can I, O Brahma, completely realise the fruit of penance?

अध्याय २३३

श्लोक 2

अथ निःश्वासजो विष्णोर् वायुस् ताञ् जलदांस् ततः नाशं नयति भो विप्रा वर्षाणाम् अधिकं शतम्

atha niḥśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ nāśaṃ nayati bho viprā varṣāṇām adhikaṃ śatam

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Lord (Visnu) the wielder of conch, discus and club, the bestower of plenty and all cherished desires asked him to choose any boon he pleased as he eulogized thus.

अध्याय २३३

श्लोक 3

सर्वभूतमयो ऽचिन्त्यो भगवान् भूतभावनः अनादिर् आदिर् विश्वस्य पीत्वा वायुम् अशेषतः

sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ anādir ādir viśvasya pītvā vāyum aśeṣataḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

By remembering these different incidents the lord of Devas became grief-stricken and anxious. He spoke these words to Vacaspati:

अध्याय २३३

श्लोक 4

एकार्णवे ततस् तस्मिञ् शेषशय्यास्थितः प्रभुः ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः

ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

What it that fault, O lord, whereby the noble-minded husband of Sac! is being ousted from his kingdom? It behoves you to dispel this doubt, O lord.

अध्याय २३३

श्लोक 5

जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः

janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ brahmalokagataiś caiva cintyamāno mumukṣubhiḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

O brahmin, then I meditated for a long time and spoke to Brhaspati: "It is on account of the fault of Khanka-

अध्याय २३३

श्लोक 6

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः

ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

According to Manu (3. 69-71), the five great sacrifices to be performed daily by every householder are: Brahmayajna or study/recitaliun of Vedic texts; Devayajna or'sacrifice to the gods; Pitryaina or oblatiou made to the manes; Manu?yayajna or honoring of guests; and Bhutayajfia or offering of food etc. to animats, birds etc.

अध्याय २३३

श्लोक 7

एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः निमित्तं तत्र यच् छेते ब्रह्मरूपधरो हरिः

eṣa naimittiko nāma viprendrāḥ pratisaṃcaraḥ nimittaṃ tatra yac chete brahmarūpadharo hariḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

The holy centre known as Ramatlrtha has the power of destroying the sin of brahmin-slaughter. Merely by remember¬ ing it, one is freed from all sins.

अध्याय २३३

श्लोक 8

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् निमीलत्य् एतद् अखिलं मायाशय्याशये ऽच्युते

yadā jāgarti sarvātmā sa tadā ceṣṭate jagat nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Quarrel arose between Devas and Danavas for the king¬ dom. In that quarrel sometimes Devas and sometimes others gained the upper hand.

अध्याय २३३

श्लोक 9

पद्मयोनेर् दिनं यत् तु चतुर्युगसहस्रवत् एकार्णवकृते लोके तावती रात्रिर् उच्यते

padmayoner dinaṃ yat tu caturyugasahasravat ekārṇavakṛte loke tāvatī rātrir ucyate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

On hearing those words of Vayu, king Dasaratha said, "O Vayu, I shall surely come. Go back assuredly".

अध्याय २३३

श्लोक 10

ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्य् अजः ब्रह्मस्वरूपधृग् विष्णुर् यथा वः कथितं पुरा

tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ brahmasvarūpadhṛg viṣṇur yathā vaḥ kathitaṃ purā

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

The king said, "I have been requested for help by Vayu before and 1 have promised my help to Devas. Let Daityas and Danavas go back."

अध्याय २३३

श्लोक 11

इत्य् एष कल्पसंहारो अन्तरप्रलयो द्विजाः नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम्

ity eṣa kalpasaṃhāro antarapralayo dvijāḥ naimittiko vaḥ kathitaḥ śṛṇudhvaṃ prākṛtaṃ param

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

The king went to heaven and did accordingly. He fought against Daityas, Danavas and Raksasas.

अध्याय २३३

श्लोक 12

अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः समस्तेष्व् एव लोकेषु पातालेष्व् अखिलेषु च

avṛṣṭyagnyādibhiḥ samyak kṛte śayyālaye dvijāḥ samasteṣv eva lokeṣu pātāleṣv akhileṣu ca

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Even as Devas were watching, the brothers of Namuci split the carriage-axle of the chariot of king Dasaratha with sharp arrows.

अध्याय २३३

श्लोक 13

महदादेर् विकारस्य विशेषात् तत्र संक्षये कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसंचरे

mahadāder vikārasya viśeṣāt tatra saṃkṣaye kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

In his hurry and flurry the king did not know that the carriage-axle had been split, but Kaikeyi of excellent eyebrows who was by the side of the king noticed it, O Narada.

अध्याय २३३

श्लोक 14

आपो ग्रसन्ति वै पूर्वं भूमेर् गन्धादिकं गुणम् आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते

āpo grasanti vai pūrvaṃ bhūmer gandhādikaṃ guṇam āttagandhā tato bhūmiḥ pralayāya prakalpate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

But in the middle of the way he saw his beloved wife. On seeing what Kaikeyi had done he became surprised much.

अध्याय २३३

श्लोक 15

प्रनष्टे गन्धतन्मात्रे भवत्य् उर्वी जलात्मिका आपस् तदा प्रवृत्तास् तु वेगवत्यो महास्वनाः

pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

When the subtle element of smell has vanished, the earth becomes water; then the waters rush forth, swift and roaring,

अध्याय २३३

श्लोक 16

सर्वम् आपूरयन्तीदं तिष्ठन्ति विचरन्ति च सलिलेनैवोर्मिमता लोकालोकः समन्ततः

sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca salilenaivormimatā lokālokaḥ samantataḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

and fill all this, standing still and moving about; the Lokaloka mountain on every side is covered by the billowing waters.

अध्याय २३३

श्लोक 17

अपाम् अपि गुणो यस् तु ज्योतिषा पीयते तु सः नश्यन्त्य् आपः सुतप्ताश् च रसतन्मात्रसंक्षयात्

apām api guṇo yas tu jyotiṣā pīyate tu saḥ naśyanty āpaḥ sutaptāś ca rasatanmātrasaṃkṣayāt

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

The quality of the waters is then drunk up by fire; the waters, heated, perish through the loss of the subtle element of taste.

अध्याय २३३

श्लोक 18

ततश् चापो ऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते

tataś cāpo 'mṛtarasā jyotiṣṭvaṃ prāpnuvanti vai agnyavasthe tu salile tejasā sarvato vṛte

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Then the waters, whose essence is taste, become fire; when the water has become fire and everything is enveloped by radiance,

अध्याय २३३

श्लोक 19

स चाग्निः सर्वतो व्याप्य आदत्ते तज् जलं तदा सर्वम् आपूर्यतो चाभिस् तदा जगद् इदं शनैः

sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tadā sarvam āpūryato cābhis tadā jagad idaṃ śanaiḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

that fire, pervading everywhere, takes up the water; and gradually this whole world is filled with its flames.

अध्याय २३३

श्लोक 20

अर्चिभिः संतते तस्मिंस् तिर्यग् ऊर्ध्वम् अधस् तथा ज्योतिषो ऽपि परं रूपं वायुर् अत्ति प्रभाकरम्

arcibhiḥ saṃtate tasmiṃs tiryag ūrdhvam adhas tathā jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

When it is spread with flames across, above and below, wind consumes the form of fire, the maker of light.

अध्याय २३३

श्लोक 21

प्रलीने च ततस् तस्मिन् वायुभूते ऽखिलात्मके प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः

pralīne ca tatas tasmin vāyubhūte 'khilātmake pranaṣṭe rūpatanmātre kṛtarūpo vibhāvasuḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

When that fire has dissolved into wind, the self of all, and the subtle element of form has vanished, fire loses its form

अध्याय २३३

श्लोक 22

प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान् निरालोके तदा लोके वायुसंस्थे च तेजसि

praśāmyati tadā jyotir vāyur dodhūyate mahān nirāloke tadā loke vāyusaṃsthe ca tejasi

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

and the light dies away; then the great wind blows violently. When the world is without light and fire has merged into wind,

अध्याय २३३

श्लोक 23

ततः प्रलयम् आसाद्य वायुसंभवम् आत्मनः ऊर्ध्वं च वायुस् तिर्यक् च दोधवीति दिशो दश

tataḥ pralayam āsādya vāyusaṃbhavam ātmanaḥ ūrdhvaṃ ca vāyus tiryak ca dodhavīti diśo daśa

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

the wind, having come to dissolution into its own source, shakes the ten directions above and across.

अध्याय २३३

श्लोक 24

वायोस् त्व् अपि गुणं स्पर्शम् आकाशं ग्रसते ततः प्रशाम्यति तदा वायुः खं तु तिष्ठत्य् अनावृतम्

vāyos tv api guṇaṃ sparśam ākāśaṃ grasate tataḥ praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Then space swallows touch, the quality of wind; the wind subsides, and space remains unenclosed —

अध्याय २३३

श्लोक 25

अरूपम् अरसस्पर्शम् अगन्धवद् अमूर्तिमत् सर्वम् आपूरयच् चैव सुमहत् तत् प्रकाशते

arūpam arasasparśam agandhavad amūrtimat sarvam āpūrayac caiva sumahat tat prakāśate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

without form, taste, touch or smell, and without shape; it shines forth immense, filling all.

अध्याय २३३

श्लोक 26

परिमण्डलतस् तत् तु आकाशं शब्दलक्षणम् शब्दमात्रं तथाकाशं सर्वम् आवृत्य तिष्ठति

parimaṇḍalatas tat tu ākāśaṃ śabdalakṣaṇam śabdamātraṃ tathākāśaṃ sarvam āvṛtya tiṣṭhati

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

All around, that space whose mark is sound, space consisting of sound alone, remains, enveloping everything.

अध्याय २३३

श्लोक 27

ततः शब्दगुणं तस्य भूतादिर् ग्रसते पुनः भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै

tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Then the elemental ego swallows sound, its quality; when the elements and senses have together come to rest in the elemental ego,

अध्याय २३३

श्लोक 28

अभिमानात्मको ह्य् एष भूतादिस् तामसः स्मृतः भूतादिं ग्रसते चापि महाबुद्धिर् विचक्षणा

abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ bhūtādiṃ grasate cāpi mahābuddhir vicakṣaṇā

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

this elemental ego, whose nature is self-conception and which is called tamasa, is itself swallowed by the discerning Great Intellect (Mahat).

अध्याय २३३

श्लोक 29

उर्वी महांश् च जगतः प्रान्ते ऽन्तर् बाह्यतस् तथा एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस् तथा

urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā evaṃ sapta mahābuddhiḥ kramāt prakṛtayas tathā

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Earth and Mahat are the outer and inner limits of the world; thus the seven principles, down to the Great Intellect, in due order

अध्याय २३३

श्लोक 30

प्रत्याहारैस् तु ताः सर्वाः प्रविशन्ति परस्परम् येनेदम् आवृतं सर्वम् अण्डम् अप्सु प्रलीयते

pratyāhārais tu tāḥ sarvāḥ praviśanti parasparam yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

all enter one another by withdrawal, and the egg by which all this is enveloped dissolves into the waters.

अध्याय २३३

श्लोक 31

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् उदकावरणं ह्य् अत्र ज्योतिषा पीयते तु तत्

saptadvīpasamudrāntaṃ saptalokaṃ saparvatam udakāvaraṇaṃ hy atra jyotiṣā pīyate tu tat

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

The seven continents and oceans, the seven worlds with their mountains — the covering of water here is drunk up by fire.

अध्याय २३३

श्लोक 32

ज्योतिर् वायौ लयं याति यात्य् आकाशे समीरणः आकाशं चैव भूतादिर् ग्रसते तं तथा महान्

jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Fire dissolves into wind, wind into space; the elemental ego swallows space, and Mahat swallows it.

अध्याय २३३

श्लोक 33

महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विजाः गुणसाम्यम् अनुद्रिक्तम् अन्यूनं च द्विजोत्तमाः

mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvijāḥ guṇasāmyam anudriktam anyūnaṃ ca dvijottamāḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Prakriti swallows Mahat together with all these, O brahmins; the equilibrium of the qualities, neither in excess nor deficient, O best of brahmins,

अध्याय २३३

श्लोक 34

प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी

procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

is called Prakriti, the cause, Pradhana, the supreme cause; this Prakriti is entirely of manifest and unmanifest nature.

अध्याय २३३

श्लोक 35

व्यक्तस्वरूपम् अव्यक्ते तस्यां विप्राः प्रलीयते एकः शुद्धो ऽक्षरो नित्यः सर्वव्यापी तथा पुनः

vyaktasvarūpam avyakte tasyāṃ viprāḥ pralīyate ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā punaḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

The manifest dissolves into her unmanifest nature, O brahmins. The one who is pure, imperishable, eternal and all-pervading —

अध्याय २३३

श्लोक 36

सो ऽप्य् अंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः

so 'py aṃśaḥ sarvabhūtasya dvijendrāḥ paramātmanaḥ naśyanti sarvā yatrāpi nāmajātyādikalpanāḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

he too is a portion of the Supreme Self of all beings, O best of brahmins, in whom all notions of name, class and the like vanish;

अध्याय २३३

श्लोक 37

सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे स ब्रह्म तत् परं धाम परमात्मा परेश्वरः

sattāmātrātmake jñeye jñānātmany ātmanaḥ pare sa brahma tat paraṃ dhāma paramātmā pareśvaraḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

in the Supreme Self, which is to be known as pure existence and whose nature is knowledge — that is Brahman, the supreme abode, the Supreme Self, the highest Lord.

अध्याय २३३

श्लोक 38

स विष्णुः सर्वम् एवेदं यतो नावर्तते पुनः प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी

sa viṣṇuḥ sarvam evedaṃ yato nāvartate punaḥ prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

He is Vishnu, all this universe, from whom there is no return. The Prakriti I have described, of manifest and unmanifest nature,

अध्याय २३३

श्लोक 39

पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि परमात्मा च सर्वेषाम् आधारः परमेश्वरः

puruṣaś cāpy ubhāv etau līyete paramātmani paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

and the Purusha — both these dissolve into the Supreme Self; and the Supreme Self is the support of all, the Supreme Lord.

अध्याय २३३

श्लोक 40

विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्

viṣṇunāmnā sa vedeṣu vedānteṣu ca gīyate pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

He is sung in the Vedas and the Vedanta by the name of Vishnu. Vedic action is of two kinds, of engagement and of withdrawal;

अध्याय २३३

श्लोक 41

ताभ्याम् उभाभ्यां पुरुषैर् यज्ञमूर्तिः स इज्यते ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ

tābhyām ubhābhyāṃ puruṣair yajñamūrtiḥ sa ijyate ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

through both of these men worship him as the embodiment of sacrifice. He is worshipped through the paths of engagement, with the Rig, Yajur and Sama Vedas —

अध्याय २३३

श्लोक 42

यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते

yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ jñānātmā jñānayogena jñānamūrtiḥ sa ijyate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

the Lord of sacrifice, the Person of sacrifice, the Supreme Person — by men; and as the Self of knowledge, the embodiment of knowledge, he is worshipped through the yoga of knowledge.

अध्याय २३३

श्लोक 43

निवृत्तैर् योगमार्गैश् च विष्णुर् मुक्तिफलप्रदः ह्रस्वदीर्घप्लुतैर् यत् तु किंचिद् वस्त्व् अभिधीयते

nivṛttair yogamārgaiś ca viṣṇur muktiphalapradaḥ hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

Through the paths of withdrawal and yoga Vishnu grants the fruit of liberation. Whatever thing is named with short, long or prolonged syllables,

अध्याय २३३

श्लोक 44

यच् च वाचाम् अविषयस् तत् सर्वं विष्णुर् अव्ययः व्यक्तः स एवम् अव्यक्तः स एव पुरुषो ऽव्ययः

yac ca vācām aviṣayas tat sarvaṃ viṣṇur avyayaḥ vyaktaḥ sa evam avyaktaḥ sa eva puruṣo 'vyayaḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

and whatever lies beyond the reach of words — all that is the imperishable Vishnu. He is the manifest, he is the unmanifest, he is the imperishable Person,

अध्याय २३३

श्लोक 45

परमात्मा च विश्वात्मा विश्वरूपधरो हरिः व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते

paramātmā ca viśvātmā viśvarūpadharo hariḥ vyaktāvyaktātmikā tasmin prakṛtiḥ sā vilīyate

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

the Supreme Self, the Self of the universe, Hari who bears the form of the universe. Into him that Prakriti of manifest and unmanifest nature dissolves,

अध्याय २३३

श्लोक 46

पुरुषश् चापि भो विप्रा यस् तद् अव्याकृतात्मनि द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः

puruṣaś cāpi bho viprā yas tad avyākṛtātmani dviparārdhātmakaḥ kālaḥ kathito yo mayā dvijāḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

and the Purusha too, O brahmins, into that undifferentiated Self. The time I have described as two parardhas, O brahmins,

अध्याय २३३

श्लोक 47

तद् अहस् तस्य विप्रेन्द्रा विष्णोर् ईशस्य कथ्यते व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा

tad ahas tasya viprendrā viṣṇor īśasya kathyate vyakte tu prakṛtau līne prakṛtyāṃ puruṣe tathā

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

is called the day of that Lord Vishnu, O best of brahmins; and when the manifest has dissolved into Prakriti, and Prakriti into Purusha,

अध्याय २३३

श्लोक 48

तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः नैवाहस् तस्य च निशा नित्यस्य परमात्मनः

tatrāsthite niśā tasya tatpramāṇā tapodhanāḥ naivāhas tasya ca niśā nityasya paramātmanaḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

and it remains so, that is his night of the same measure, O ascetics. Yet for the eternal Supreme Self there is neither day nor night;

अध्याय २३३

श्लोक 49

उपचारात् तथाप्य् एतत् तस्येशस्य तु कथ्यते इत्य् एष मुनिशार्दूलाः कथितः प्राकृतो लयः

upacārāt tathāpy etat tasyeśasya tu kathyate ity eṣa muniśārdūlāḥ kathitaḥ prākṛto layaḥ

हिन्दी अर्थ

इदं मयोक्तं प्रवरं पुराणं पापापहं धर्मविवर्धनं च। श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ।

English

it is only figuratively said of that Lord. This, O tigers among sages, is the natural (prakrita) dissolution I have described.

स्रोत: https://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/plaintext/sa_brahmapurANa-1-246.txt · प्राप्त 3/6/2026

शास्त्रीय प्रामाणिकता एवं पारदर्शकताSources & Interpretation

स्रोत, संस्करण एवं व्याख्या वर्गीकरण

धर्म ग्रंथ पर मूल शास्त्र, पारंपरिक भाष्य और आधुनिक व्याख्या को पूर्णतः पृथक रखा जाता है ताकि पाठक को किसी भी व्याख्या के शास्त्र होने का भ्रम न हो।

सामग्री वर्गीकरण संकेत (Epistemic Content Labels)

६ स्तरिय प्रमाण व्यवस्था
मूल पाठOriginal text

अपौरुषेय / प्रामाणिक शास्त्र (Primary Canonical Scripture)

मूल संस्कृत, प्राकृत अथवा अवधी श्लोक/मंत्र। यह सर्वोच्च प्रमाण (प्रस्थान) है। इस पाठ में किसी भी आधुनिक व्याख्याकार का हस्तक्षेप नहीं है।

शाब्दिक अनुवादLiteral translation

पदार्थ व अन्वय (Direct Grammatical & Word-for-Word Meaning)

व्याकरणसम्मत प्रत्यक्ष शब्दार्थ (अन्वय)। बिना किसी दार्शनिक संप्रदाय के पूर्वाग्रह के, संस्कृत शब्दों का सटीक भाषांतर।

पारंपरिक भाष्यTraditional commentary

आचार्य परंपरा व टीका (Classical Lineage Commentary)

प्राचीन आचार्य परंपरा (यथा शंकराचार्य, रामानुजाचार्य, मध्वाचार्य, श्रीधर स्वामी) द्वारा विरचित शास्त्रीय भाष्य व टीकाएं।

सरल व्याख्याSimple explanation

भावार्थ व सुबोध प्रबोधन (Accessible Pedagogical Exposition)

आधुनिक जिज्ञासुओं के लिए सरल भाषा में भावार्थ। यह मूल मंत्र नहीं, बल्कि पाठ को सुगम बनाने हेतु संपादकीय व्याख्या है।

आधुनिक चिंतनModern reflection

समसामयिक विमर्श व अनुप्रयोग (Contemporary Application & Analysis)

दार्शनिक, मनोवैज्ञानिक व वैज्ञानिक समरूपताओं पर आधुनिक चिंतन। यह मूल शास्त्र का अंग नहीं है और इसे शास्त्रोक्त सिद्धांत के रूप में नहीं देखा जाना चाहिए।

शोध टिप्पणीResearch note

पांडुलिपि एवं ऐतिहासिक शोध (Critical Apparatus & Manuscript Research)

पांडुलिपि विविधताएं, पाठ-भेद (variant readings), छंद रचना, और ऐतिहासिक व तुलनात्मक भाषावैज्ञानिक शोध। यह शास्त्र का मूल संदेश बदलने हेतु नहीं, बल्कि पाठ की प्रामाणिकता परखने के लिए है।

पहचानकर्ता:Brahma Purana — Chapter 233
संस्कृत संस्करण:Imported text; printed edition not recorded

Digitised text taken from the archive linked below. It has not been collated against a printed edition by this site.

पुरालेखागार / स्रोत:Open Sanskrit text archives (see the source link)
गणना पद्धति:

Numbering follows the imported source and may differ from other editions.